वांछित मन्त्र चुनें
देवता: अग्निः ऋषि: कण्वो घौरः छन्द: बृहती स्वर: मध्यमः

तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते । होत्रा॑भिर॒ग्निं मनु॑षः॒ समि॑न्धते तिति॒र्वांसो॒ अति॒ स्रिधः॑ ॥

अंग्रेज़ी लिप्यंतरण

taṁ ghem itthā namasvina upa svarājam āsate | hotrābhir agnim manuṣaḥ sam indhate titirvāṁso ati sridhaḥ ||

मन्त्र उच्चारण
पद पाठ

तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः॑ । उप॑ । स्व॒राज॑म् । आ॒स॒ते॒ । होत्रा॑भिः । अ॒ग्निम् । मनु॑षः । सम् । इ॒न्ध॒ते॒ । ति॒ति॒र्वांसः॑ । अति॑ । स्रिधः॑॥

ऋग्वेद » मण्डल:1» सूक्त:36» मन्त्र:7 | अष्टक:1» अध्याय:3» वर्ग:9» मन्त्र:2 | मण्डल:1» अनुवाक:8» मन्त्र:7


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर उसी अर्थ का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - जो (नमस्विनः) उत्तम सत्कार करनेवाले (मनुषः) मनुष्य (होत्राभिः) हवनयुक्त सत्य क्रियाओं से (स्वराजम्) अपने राजा (अग्निम्) ज्ञानवान् सभाध्यक्ष को (घ) ही (उपासते) उपासना और (तम्) उसीका (समिन्धते) प्रकाश करते हैं वे मनुष्य (स्रिधः) हिंसा नाश करनेवाले शत्रुओं को (अति तितिर्वांसः) अच्छे प्रकार जीतकर पार हो सकते हैं ॥७॥
भावार्थभाषाः - कोई भी मनुष्य सभाध्यक्ष की उपासना करनेवाले भृत्य और सभासदों के विना अपने राज्य की सिद्धि को प्राप्त होकर शत्रुओं से विजय को प्राप्त नहीं हो सकता ॥७॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(तम्) प्रधानं सभाध्यक्षं राजानम् (घ) एव (ईम्) प्रदातारम्। ईमिति पदनामसु पठितम्। निघं० ४।२। अनेन प्राप्त्यर्थो गृह्यते (इत्था) अनेन प्रकारेण (नमस्विनः) नमः प्रशस्तो वज्रः शस्त्रसमूहो विद्यते येषां ते। अत्र प्रशंसार्थे विनिः। (उप) सामीप्ये (स्वराजम्) स्वेषां राजा स्वराजस्तम् (आसते) उपविशन्ति (होत्राभिः) हवनसत्यक्रियाभिः (अग्निम्) ज्ञानस्वरूपम् (मनुषः) मनुष्याः। अत्र मनधातोर्बाहुलकादौणादिक उसिः प्रत्ययः। (सम्) सम्यगर्थे (इन्धते) प्रकाशयन्ते (तितिर्वांसः) सम्यक् तरन्तः। अत्र तॄधातोर्लिटः* स्थाने वर्त्तमाने क्वसुः। (अति) अतिशयार्थे (स्रिधः) हिंसकान क्षयकर्त्तृञ्च्छत्रून् ॥७॥*[लोटः। सं०]

अन्वय:

पुनः स एवार्थ उपदिश्यते।

पदार्थान्वयभाषाः - ये नमस्विनो मनुषो होत्राभिस्तं स्वराजमग्निं सभाध्यक्षं घोपासते समिन्धते च तेऽतिस्रिधस्तितिर्वांसो भवेयुः ॥७॥
भावार्थभाषाः - न खलु सभाध्यक्षोपासकैः सभासद्भिर्भृत्यैर्विना कश्चिदपि स्वराजसिद्धिं प्राप्य शत्रून् विजेतुं शक्नोति ॥७॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - कोणतीही माणसे सभाध्यक्षाची भक्ती करणारी, सेवक व सभासद यांच्याशिवाय आपले राज्य प्राप्त करून शत्रूंवर विजय मिळवू शकत नाहीत. ॥ ७ ॥